कालिदासस्य शकुन्तला नाटकस्य सामाजिकदृष्टिः
Keywords:
सामाजिकदृष्टिः, पर्यावरणसंरक्षणम्, स्त्रीसशक्तिकरणम्, कुटुम्बमूल्याः, नैतिकताAbstract
महाकविः कालिदासः संस्कृतसाहित्ये अमूल्यं योगदानं कृतवान्। तस्य ‘अभिज्ञानशाकुन्तलम्’ नाटकं भारतीयसंस्कृतेः आदर्शं प्रतिबिम्बं ददाति। अस्मिन् नाटके सामाजिकसामञ्जस्यं, नैतिकमूल्यं, पर्यावरणसंरक्षणं च विस्तृतरीत्या प्रतिपादितम्। शकुन्तलाया चरित्रे प्राकृतिकः सौन्दर्यः, स्त्रीत्वस्य गौरवम्, तथा त्यागस्य महत्त्वं प्रकाशते। दुष्यन्तस्य व्यक्तित्वे राजधर्मः, न्यायप्रियता, तथा कर्तव्यबोधः दृश्यते। अस्य नाटके कुटुम्बजीवनस्य आदर्शं, स्त्री-पुरुषयोः सम्बन्धः, तथा धर्म-अधर्मयोः विचारः प्रदर्श्यते। नाट्यस्य प्रासंगिकता इदानीन्तनसामाजिके जीवनमूल्येषु अपि दृष्टुं शक्यते। पर्यावरणसंवेदनशीलता, स्त्रीसशक्तिकरणं, धर्मपालनं च अस्मिन् नाटके प्रतिपादितानि सन्ति। अतः कालिदासस्य नाटकं न केवलं साहित्यिकं कृतिः, अपितु सामाजिकदृष्ट्या अपि महत्वं धारयति।